Shivag Itim Al A
Shivag Itim Al A
Shivag Itim Al A
sanskritdocuments.org
Location : doc_shiva
Sri Kamakshi
This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.
sanskritdocuments.org
Sivagitimala or Sivashtapadi
श्रीचन्द्रशेखरेन्द्रसरस्वतीविरचिता
Sivagitimala (Sivashtapadi)
by Jagadguru Sri Chandrasekharendra Saraswati
(62nd Sankaracharya of Kanchi Kamakoti Peetham)
॥ प्रथमः सर्गः ॥
ध्यानश्लोकाः -
सकलविघ्ननिवर्तक शङ्करप्रियसुत प्रणतार्तिहर प्रभो ॥
मम हृदम्बुजमध्यलसन्मणीरचितमण्डपवासरतो भव ॥ १॥
विधिवदनसरोजावासमाध्वीकधारा
विविधनिगमवृन्दस्तूयमानापदाना ।
समसमयविराजच्चन्द्रकोटिप्रकाशा
मम वदनसरोजे शारदा सन्निधत्ताम्॥ २॥
यदनुभवसुधोर्मीमाधुरीपारवश्यं
विशदयति मुनीनात्मनस्ताण्डवेन ।
कनकसदसि रम्ये साक्षिणीवीक्ष्यमाणः
प्रदिशतु स सुखं मे सोमरेखावतंसः ॥ ३॥
शर्वाणि पर्वतकुमारि शरण्यपादे
निर्वापयास्मदघसन्ततिमन्तरायम्।
इच्छामि पङ्गुरिव गाङ्गजलावगाह-
मिच्छामिमां कलयितुं शिवगीतिमालाम्॥ ४॥
शिवचरणसरोजध्यानयोगामृताब्धौ
जलविहरणवाञ्छासङ्गतं यस्य चेतः ।
1
शिवगीतिमाला अथवा शिवाष्टपदी
निखिलदुरितमभङ्गव्यापृतं वा मनोज्ञं
परशिवचरिताख्यं गानमाकर्णनीयम्॥ ५॥
॥ प्रथमाष्टपदी ॥
मालवीरागेण आदितालेन गीयते
(प्रलयपयोधिजले इतिवत्)
2 sanskritdocuments.org
शिवगीतिमाला अथवा शिवाष्टपदी
कच्छपतनुहरिणा निस्तुलभक्तियुजा
सन्ततपूजितचरणसरोज
शङ्कर शिव कच्छप लिङ्ग जय भवतापहर ॥ ९॥
शङ्करवरगुरुणा परिपूजितपाद
काञ्चिपुरे विवृताखिलवेद
शङ्कर विधुमौलिमहेश जय भवतापहर ॥ १०॥
श्रीविधुमौलियतेरिदमुदितमुदारं
श्रृणु करुणाभरणाखिलसारं
शङ्करारुणशैलमहेश जय भवतापहर ॥ ११॥
श्लोकः
कनकसभानटाय हरिनीलगळाय नम-
स्त्रिपुरहराय माररिपवे मुनिमोहभिदे ।
रघुकृतसेतवे विमलकाशिजुषे भवते
निगमरसाल कूर्महरिपूजित चन्द्रधर .. .. ६॥
पापं वारयते परं घटयते कालं पराकुर्वते
मोहं दूरयते मदं शमयते मत्तासुरान्हिंसते ।
मारं मारयते महामुनिगणानानन्दिनः कुर्वते
पार्वत्या सहिताय सर्वनिधये शर्वाय तुभ्यं नमः ॥ ७॥
॥ द्वितीयाष्टपदी ॥
भैरवीरागेण त्रिपुटतालेन गीयते
(श्रितकमलाकुच इतिवत्)
कलिहरचरितविभूषण श्रुतिभाषण
करतलविलसितशूल जय भवतापहर ॥ १॥
दिनमणिनियुतविभासुर विजितासुर
नलिननयनकृतपूज जय भवतापहर ॥ २॥
निर्जितकुसुमशरासन पुरशासन
निटिलतिलकशिखिकील जय भवतापहर ॥ ३॥
पदयुगविनताखण्डल फणिकुण्डल
shivagItimAlA.pdf 3
शिवगीतिमाला अथवा शिवाष्टपदी
4 sanskritdocuments.org
शिवगीतिमाला अथवा शिवाष्टपदी
मदनमहीपतिशुभकरमन्त्रजपायितमधुकरघोषे
अविरलकुसुममरन्दकृताभिनिषेचनतरुमुनिपोषे विलसति ॥ ४॥
मदननिदेशनिवृत्तकलेबरमर्दनमलयसमीरे
तुषितमधुव्रतसञ्चलदतिथिसुपूजनमधुरसपूरे विलसति ॥ ५॥
सुचिरकृतव्रतमौनवनप्रियमुनिजनवागनुकूले
ललितलतागृहविहृतिकृतश्रमयुवतिसुखानिलशीले विलसति ॥ ६॥
विषमशरावनिपालरथायितमृदुलसमीरणजाले
विरहिजनाशयमोहनभसितपरागविजृम्भणकाले विलसति ॥ ७॥
श्रीशिवपूजनयतमति चन्द्रशिखामणियतिवरगीतं
श्रीशिवचरणयुगस्मृतिसाधकमुदयतु वन्यवसन्तं विलसति ॥ ८॥
श्लोकः
विकचकमलकम्पाशैवलिन्यास्तरङ्गैः
अविरलपरिरम्भः सम्भ्रमन्मञ्जरीणाम्।
परिसररसरागैर्व्याप्तगात्रानुलेपो
विचरति कितवोऽयं मन्दमन्दं समीरः ॥ ९॥
॥ द्वितीयः सर्गः ॥
श्लोकः
प्रगल्भतरभामिनी शिवचरित्र गानामृत-
प्रभूतनवमञ्जरीसुरभिगन्धिमन्दानिले ।
रसालतरुमूलगस्फुरितमाधवी मण्डपे
महेशमुपदर्शयन्त्यसकृदाह गौरीमसौ ॥
॥ चतुर्थाष्टपदी ॥
रामक्रियारागेण आदितालेन गीयते
(चन्दनचर्चित इतिवत्)
अविरल कुङ्कुमपङ्ककरम्बितमृगमदचन्द्रविलेपं
निटिल विशेषकभासुरवह्निविलोचन कृतपुरतापं
शशिमुखि शैलवधूतनये विलोकय हरमथ केलिमये शशिमुखि ॥ १॥
shivagItimAlA.pdf 5
शिवगीतिमाला अथवा शिवाष्टपदी
युवतिजनाशयमदनशरायितशुभतरनयन विलासं
भुवनविजृम्भितघनतरतिमिरनिषूदननिजतनु भासं शशिमुखि ॥ २॥
पाणि सरोजमृगीपरिशङ्कितबालतृणालिगलाभं
यौवतहृदयविदारणपटुतरदरहसितामितशोभं शशिमुखि ॥ ३॥
चरणसरोजलसन्मणिनूपुरघोषविवृतपदजातं
गगनधुनीसमतनुरुचिसंहतिकारितभुवनविभातं शशिमुखि ॥ ४॥
निखिलवधूजनहृदयसमाहृतिपटुतरमोहनरूपं
मुनिवरनिकरविमुक्तिविधायकबोधविभावनदीपं शशिमुखि ॥ ५॥
विकचसरोरुहलोचनसकृदवलोकनकृतशुभजातं
भुजगशिरोमणिशोणरुचा परिभीतमृगीसमुपेतं शशिमुखि ॥ ६॥
रजतमहीधरसदृशमहावृषदृष्टपुरोवनिभागं
सनकसनन्दनमुनिपरिशोभितदक्षिणतदितरभागं शशिमुखि ॥ ७॥
श्रीशिवपरिचरणव्रतचन्द्रशिखामणि नियमधनेन
शिवचरितं शुभगीतमिदं कृतमुदयतु बोधघनेन शशिमुखि ॥ ८॥
श्लोकः
मदनकदनशान्त्यै फुल्लमल्ली प्रसूनैः
विरचितवरशय्यामाप्नुवन्निन्दुमौलिः ।
मृदुमलयसमीरं मन्यमानः स्फुलिङ्गान्
कलयति हृदये त्वामन्वहं शैल कन्ये ॥ १२॥
इति सहचरीवाणीमाकर्ण्य सापि सुधाझरीं
अचलदुहिता नेतुः श्रुत्वाभिरूप्यगुणोदयम्।
विरहजनितामार्तिं दूरीचकार हृदि स्थितां
दयितनिहितप्रेमा कामं जगाद मिथः सखीम्॥ १३॥
॥ पञ्चमाष्टपदी ॥
तोडिरागेण चापुतालेन गीयते
(सञ्चरदधर इतिवत्)
जलरुहशिखरविराजितहिमकरशङ्कितकरनखराभं
रुचिररदनकिरणामरसरिदिव शोणनदाधर शोभं
6 sanskritdocuments.org
शिवगीतिमाला अथवा शिवाष्टपदी
shivagItimAlA.pdf 7
शिवगीतिमाला अथवा शिवाष्टपदी
॥ तृतीयः सर्गः ॥
श्लोकः
इति बहु कथयन्तीमालिमालोक्य बालां
अलघुविरहदैन्यामद्रिजामीक्षमाणः ।
सपदि मदनखिन्नः सोमरेखावतंसः
किमपि विरहशान्त्यै चिन्तयामास धीरः ॥ १६॥
॥ सप्तमाष्टपदी ॥
भूपालरागेण त्रिपुटतालेन गीयते
(मामियं चलिता इतिवत्)
8 sanskritdocuments.org
शिवगीतिमाला अथवा शिवाष्टपदी
श्लोकः
लीलया कलहे गता कपटक्रुधा वनितेयं
मानिनी मदनेन मामपि सन्तनोति विधेयम्॥
शिव शिव कुलाचलसुता ॥ १॥
तापितो मदनज्वरेण तनूनपादधिकेन
यापयमि कतं नु तद्विरहं क्षणं कुतुकेन शिव शिव ॥ २॥
यत्समागमसम्मदेन सुखी चिरं विहरामि ।
यद्वियोगरुजा न जातु मनोहितं वितनोमि शिव शिव ॥ ३॥
लीलया कुपिता यदा मयि तामथानुचरामि ।
भूयसा समयेन तामनुनीय संविहरामि शिव शिव ॥ ४॥
अर्पितं शिरसि क्रुधा मम हा यदङ्घ्रिसरोजं
पाणिना परिपूजितं बत जृम्भमाणमनोजं शिव शिव ॥ ५॥
दृश्यसे पुरतोऽपि गौरि न दृश्यसे चपलेव ।
नापराधकथा मयि प्रणतं जनं कृपयाव शिव शिव ॥ ६॥
नीलनीरदवेणि किं तव मत्कृतेऽनुनयेन ।
सन्निधेहि न गन्तुमर्हसि मादृशे दयनेन शिव शिव ॥ ७॥
वर्णितं शिवदासचन्द्रशिखामणिश्रमणेन ।
वृत्तमेतदुदेतु सन्ततं ईशितुः प्रवणेन शिव शिव ॥ ८॥
श्लोकः
भुवनविजयी विक्रान्तेषु त्वमेव न चेतरः
तव न कृपणे युक्तं मादृग्विधे शरवर्षणम्।
मदन यदि ते वैरं निर्यातु भो नियतं पुरा
विहितमहितो नाहं नित्यं तवास्मि निदेशगः ॥ १७॥
मधुकरमयज्याघोषेण प्रकम्पयसे मनः
परभृतवधूगाने कर्णज्वरं तनुषेतराम्।
कुसुमरजसां बृन्दैरुत्मादयस्यचिरादितः
स्मर विजयसे विश्वं चित्रीयते कृतिरीदृशी ॥ १८॥
चलितललितापाङ्ग श्रेणीप्रसारणकैतवात्
shivagItimAlA.pdf 9
शिवगीतिमाला अथवा शिवाष्टपदी
दरविकसितस्वच्छच्छायासितोत्पलवर्षणैः ।
विरहशिखिना दूनं दीनं न मामभिरक्षितुं
यदि न मनुषे जानासि त्वं मदीयदशां ततः ॥ १९॥
शुभदति विचरावः शुभ्रकम्पातटिन्यास्तट
भुवि रमणीयोद्यानकेळिं भजावः ।
प्रतिमुहुरिति चिन्ताविह्वलः शैलकन्यामभि
शुभतरवादः पातु चन्द्रार्धमौलेः ॥ २०॥
॥ चतुर्थः सर्गः ॥
श्लोकः
कम्पातीरप्रचुररुचिरोद्यानविद्योतमान-
श्रीमाकन्दद्रुमपरिसर माधवीक्लृप्तशालाम्।
अध्यासीनं रहसि विरहश्रान्तमश्रान्तकेलिं
वाचं गौरीप्रियसहचरी प्राह चन्द्रावतंसम्॥ २१॥
॥ अष्टमाष्टपदी ॥
सौराष्ट्ररागेण आदितालेन गीयते
(निन्दति चन्दनं इतिवत्)
या हि पुरा हर कुतुकवती परिहासकथासु विरागिणी
असितकुटिल चिकुरावळि मण्डनशुभतरदाम निरोधिनी
शङ्कर शरणमुपैति शिवामतिहन्ति स शम्बरवैरी
शिव विरहकृशा तव गौरी ॥ १॥
कुसुम शयनमुपगम्य सपदि मदनशरविसरपरिदूना
मलयजरजसि महनलततिमिव कलयति मतिमतिदीना
शिव विरहकृशा तव गौरी ॥ २॥
उरसिरुचिरमणिहारलतागतबलभिदुपलततिनीला
मञ्जुवचनगृहपञ्जरशुकपरिभाषणपरिहृतलीला
शिव विरहकृशा तव गौरी ॥ ३॥
भृशकृतभवदनुभावनयेक्षित भवति विहितपरिवादा
सपदि विहित विरहानुगमनादनुसम्भृतहृदय विषादा
10 sanskritdocuments.org
शिवगीतिमाला अथवा शिवाष्टपदी
shivagItimAlA.pdf 11
शिवगीतिमाला अथवा शिवाष्टपदी
॥ पञ्चमः सर्गः ॥
श्लोकः
एकाम्रमूलविलसन्नवमञ्जरीक
श्रीमाधवीरुचिरकुञ्जगृहेवसामि ।
तामानयानुनय मद्वचनेन गौरीमित्थं
शिवेन पुनराह सखी नियुक्ता ॥
॥ दशमाष्टपदी ॥
आनन्दभैरवीरागेण आदितालेन गीयते
(वहति मलयसमीरे इतिवत्)
जयति मदननृपाले शिवे कुपितपथिक जालं
भ्रमरमिथुन जाले शिवे पिबति मधु सलीलं
विरहरुजा पुरवैरी परिखिद्यति गौरी शिवविरहरुजा ॥ १॥
मलयमरुति वलमाने शिवे विरह विघटनाय
सति च मधुपगाने शिवे सरसविहरणाय शिव विरहरुजा ॥ २॥
कुसुमभरितसाले शिवे विततसुमधुकाले
कृपणविरहिजाले शिवे कितवहृदनुकूले शिवविरहरुजा ॥ ३॥
मदनविजयनिगमं शिवे जपति पिकसमूहे
चतुरकितवसङ्ग (शिवे) कुटिलरवदुरूहे शिवविरहरुजा ॥ ४॥
12 sanskritdocuments.org
शिवगीतिमाला अथवा शिवाष्टपदी
shivagItimAlA.pdf 13
शिवगीतिमाला अथवा शिवाष्टपदी
14 sanskritdocuments.org
शिवगीतिमाला अथवा शिवाष्टपदी
॥ षष्ठः सर्गः ॥
श्लोकः
अथ विरहिणीमर्मच्छेदानुसम्भृतपातक-
श्रित इव निशानाथः सङ्क्रान्तनीलगुणान्तरः ।
किरणनिकरैरञ्चत्कम्पासरित्तटरम्यभू-
वलयमभितो व्याप्त्या विभ्राजयन्परिजृम्भते ॥ ३२॥
shivagItimAlA.pdf 15
शिवगीतिमाला अथवा शिवाष्टपदी
16 sanskritdocuments.org
शिवगीतिमाला अथवा शिवाष्टपदी
॥ सप्तमः सर्गः ॥
श्लोकः
चकोराणां प्रीतिं कलयसि मयूखैर्निजकला-
प्रदानैर्देवानमपि दयितभाजां मृगदृशाम्।
न कोकानां राकाहिमकिरण मादृग्विरहिणी-
जनानां युक्तं ते किमिदमसमं हन्त चरितम्॥ ३५॥
गङ्गामङ्गनिषङ्गिपङ्कजरजोगन्धावहामङ्गनां
आश्लिष्यन्निभृतं निरङ्कुशरहः केळीविशेषैरलम्।
विभ्रान्तः किमदभ्ररागभरितस्तस्यामुत स्यादयं
shivagItimAlA.pdf 17
शिवगीतिमाला अथवा शिवाष्टपदी
18 sanskritdocuments.org
शिवगीतिमाला अथवा शिवाष्टपदी
॥ अष्टमः सर्गः ॥
श्लोकः
मत्प्राणनेतुरसहायरसालमूल-
लीलागृहस्य मयि चेदनुरागबन्धः ।
अन्याकथानुभविनः प्रणयानुबन्धो
दूति प्रसीदति ममैष महानुभावः ॥
॥ षोडशाष्टपदी ॥
पुन्नागवराली रागेण आदितालेन गीयते
(अनिलतरलकुवलयनयनेन इतिवत्)
अरुणकमलशुभतरचरणेन सपदि गता न हि भवतरणेन ।
या विहृता पुरवैरिणा ॥ १॥
स्मितरुचिहिमकरशुभवदनेन निहितगुणा विलसितसदनेन ।
या विहृता पुरवैरिणा ॥ २॥
सरसवचनजितकुसुमरसेन हृदि विनिहितरतिकृतरभसेन ।
या विहृता पुरवैरिणा ॥ ३॥
विहित विविधकुसुमशरविहृते नानागतरसा नयगुण विहितेन ।
या विहृता पुरवैरिणा ॥ ४॥
उदितजलजरुचिरगळेन स्फुटितमना न युवतिनिगळेन ।
या विहृता पुरवैरिणा ॥ ५॥
कनकरुचिरसुजटापटलेनानुहतसुखासतिलकनिटिलेन ।
या विहृता पुरवैरिणा ॥ ६॥
निखिलयुवतिमदनोदयनेन ज्वरितमाना न विरहदहनेन ।
या विहृता पुरवैरिणा ॥ ७॥
तुहिनकिरणधरयतिरचनेन सुखयतु मां शिवहितवचनेन ।
या विहृता पुरवैरिणा ॥ ८॥
shivagItimAlA.pdf 19
शिवगीतिमाला अथवा शिवाष्टपदी
श्लोकः
अयि मलयसमीर क्रूर भावोरगाणां
श्वसितजनित किं ते मादृशीहिंसनेन ।
क्षणमिव सहकारादीशगात्रानुषङ्ग-
उपहृतपरिमलात्मा सन्निधेहि प्रसन्नः ॥ ४०॥
॥ नवमः सर्गः ॥
श्लोकः
इत्थं रुषा सहचरीं परुषं वदन्ती
शैलाधिराजतनुजा तनुजातकार्श्या ।
नीत्वा कथं कथमपि क्षणदां महेशः
मागः प्रशान्ति विनतं कुटिलं बभाषे ॥ ४१॥
॥ सप्तदशाष्टपदी ॥
आरभीरागेण त्रिपुटतालेन गीयते
(रजनिजनितगुरु इतिवत्)
चतुरयुवतिसुरतादर जागरितारुणमधृतविलासं
निटिलनयन नयनद्वितयं तव कथयति तदभिनिवेशम्।
पाहि तामिह फाललोचन या तव दिशति विहारं
गरळमिलितधवलामृतमिव हरमागमवचनमसारं पाहि ॥
गुरुतरकुचपरिरम्भणसम्भृतकुङ्कुमपङ्किलहारं
स्मरति विशालमुरो विशदं तव रतिरभसादनुरागं पाहि ॥ २॥
रतिपतिसमरविनिर्मित निशितनखक्षतचिह्नितरेखं
वपुरिदमळिकविलोचन लसदिव रतिभरकृतजयरेखं पाहि ॥ ३॥
रदनवसनमरुणमिदं तव पुरहर भजति विरागं
विगलितहिमकरशकलमुदञ्चितदर्शितरतिभरवेगं पाहि ॥ ४॥
युवतिपदस्थितयावकरसपरिचिन्तितरतिकमनीयं
विलसति वपुरिदमलघुबहिर्गतमयति विरागममेयं पाहि ॥ ५॥
युवतिकृतव्रणमधरगतं तव कलयति मम हृदि रोषं
प्रियवचनावसरेऽपि मया सह स्फुटयति तत्परितोषं पाहि ॥ ६॥
20 sanskritdocuments.org
शिवगीतिमाला अथवा शिवाष्टपदी
सुरतरुसुमदामनिकायनिबद्धजटावलिवलयमुदारं
कितवमनोभवसङ्गरशिथिलितमनुकथयति सुविहारं पाहि ॥ ७॥
इति हिमगिरिकुलदीपिकया कृतशिवपरिवदनविधानं
सुखयतु बुधजनमीशनिषेवणयतिवरविधुशेखरगानं पाहि ॥ ८॥
श्लोकः
ईदृग्विधानि सुबहूनि तव प्रियायां
गाढानुरागकृतसङ्गमलाञ्छितानि ।
साक्षदवेक्षितवतीमिह मामुपेत्य
किं भाषसे कितवशेखर चन्द्रमौळे ॥ ४२
॥ दशमः सर्गः ॥
श्लोकः
तामुद्यतप्रसवबाणविकारखिन्नां
सञ्चिन्त्यमानशशिमौलिचरित्रलीलाम्।
बालां तुषारगिरिजां रतिकेलिभिन्नां
आळिः प्रियाथ कलहान्तरितामुवाच ॥ ४३॥
॥ अष्टादशाष्टपदी ॥
यदुकुलकाम्भोजिरागेण आदितालेन गीयते
(हरिरभिसरति इतिवत्)
पुररिपुरभिरतिमति हृदि तनुते
भवदुपगूहनमिह बहु मनुते ।
शङ्करे हे शङ्करि मा भज
मानिनि परिमानमुमे शङ्करे ॥ १॥
मृगमदरसमय गुरुकुचयुगले
कलयति पुररिपुरथ मति निगले ॥ शङ्करे ॥ २॥
सुचिरविरहभवमपहर कलुषं
भवदधरामृतमुपहर निमिषं ॥ शङ्करे ॥ ३॥
सरस निटिलकृतचित्रकरुचिरं
shivagItimAlA.pdf 21
शिवगीतिमाला अथवा शिवाष्टपदी
॥ एकादशः सर्गः ॥
इत्थं प्रियां सहचरीं गिरमुद्गिरन्तीं
चिन्ताभरेण चिरमीक्षितुमप्यधीरा ।
गौरी कथञ्चिदभिमानवती ददर्श
कान्तं प्रियानुनयवाक्य मुदीरयन्तम्॥ ४५॥
बाले कुलाचलकुमारि विमुञ्च रोषं
दोषं च मय्यधिगतं हृदये न कुर्याः ।
शक्ष्यामि नैव भवितुं भवतीं विनाहं
वक्ष्यामि किं तव पुरः प्रियमन्यदस्मात्॥ ४६॥
॥ एकोनविंशाष्टपदी ॥
मुखारि रागेण झम्पतालेन गीयते
(वदसि यदि किञ्चिदपि इतिवत्)
भजसि यदि मयि रोषमरुणवारिरुहाक्षि
किमिह मम शरणमभिजातं
22 sanskritdocuments.org
शिवगीतिमाला अथवा शिवाष्टपदी
शरणमुपयायतवति कलुषपरिभावनं
न वरमिति सति सुजनगीतं शिवे शैलकन्ये
पञ्चशरतपनमिह जातं
हरकमलशीतलं सरसनयनाञ्चलं
मयि कलय रतिषु कमनीयं शिवे शैलकन्ये ॥ १॥
स्पृशसि यदि वपुररुणकमलसमपाणिना
न स्पृशसि तपनमनिवारं
दरहसितचन्द्रकरनिकरमनुषञ्जयसि
यदि मम च हृदयमतिधीरं शिवे शैलकन्ये ॥ २॥
कुसुमदामचयेन मम जटावलिजूटनिचयमयि सुदति सविलासं
सपदि कलयामि वलयाकृतिसरोजवनसुरसरितमुपहसितभासम्
शिवे शैलकन्ये ॥ ३॥
अमलमणिहारनिकरेण परिभूषयसि
पृथुल कुचयुगल मतिभारम्।
तुहिनगरिशिखरानुगळितसुरनिम्नगा
सुगळसमभावसुगभीरम् शिवे शैलकन्ये ॥ ४॥
विकसदसिताम्बुरुहविमलनयना-
ञ्चलैरुपचरसि विरहपरिदूनम्।
सफलमिह जीवितं मम सुदति कोपने
विसृज मयि सफलमतिमानम् शिवे शैलकन्ये ॥ ५॥
भवदधर मधु वितर विषमशरविकृति-
हरमयि वितर रतिनियतभानं
स्फुयमदपराधशतमगणनीयमिह
विमृश भवदनुसृतिविधानं शिवे शैलकन्ये ॥ ६॥
कुपितहृदयासि मयि कलय भुजबन्धने
कुरु निशितरदनपरिपातं
उचितमिदमखिलं तु नायिके सुदति मम
शिक्षणं स्वकुचगिरिपातं शिवे शैलकन्ये ॥ ७॥
इति विविधवचनमपि चतुरपुरवैरिणा
हिमशिखरिजनुषमभिरामं
shivagItimAlA.pdf 23
शिवगीतिमाला अथवा शिवाष्टपदी
शिवभजननियतमतियतिचन्द्रमौलिना
फणितमपि जयतु भुवि कामं शिवे शैलकन्ये ॥ ८॥
श्लोकः
सुचिर विरहाक्रान्तं विभ्रान्तचित्तमितस्ततः
स्मरपरवशं दीनं नोपेक्षसे यदि मां प्रिये ।
अहमिह चिरं जीवन्भावत्कसेवनमाद्रिये
यदपकरणं सर्वं क्षन्तव्यमद्रिकुमारिके ॥ ४७॥
॥ द्वादशः सर्गः ॥
श्लोकः
इति विरहितामेनां चेतः प्रसादवतीं शिवां
अनुनयगिरां गुम्फैः सम्भावयन्निजपाणिना ।
झटिति घटयन्मन्दस्मेरस्तदीयकराम्बुजं
हिमकरकलामौलिः संप्राप केलिलतागृहम्॥ ४८॥
संप्राप्य केळीगृहमिन्दुमौलिः इन्दीवराक्षीमनुवीक्षमाणः ।
जहौ रहः केलिकुतूहलेन वियोगजार्तिं पुनराबभाषे ॥ ४९॥
॥ विंशाष्टपदी ॥
घण्टारागेण झम्पतालेन गीयते
(मञ्जुतरकुञ्जतल इतिवत्)
पृथुलतरललितकुचयुगलमयि ते
मृगमदरसेन कलयामि दयिते ।
रमय बाले भवदनुगमेनं ॥ रमय बाले ॥ १॥
विधुशकलरुचिरमिदमलिकमयि ते
शुभतिलकमभिलसतु केलिनियते ॥ रमय बाले ॥ २॥
इह विहर तरुणि नव कुसुमशयने
भवदधरमधु वितर मकरनयने ॥ रमय बाले ॥ ३॥
अयि सुचिरविरहरुजमपहर शिवे
सरसमभिलप रमणि परभृतरवे ॥ रमय बाले ॥ ४॥
24 sanskritdocuments.org
शिवगीतिमाला अथवा शिवाष्टपदी
कलय मलयजपङ्कमुरसि मम ते
कठिनकुचयुगमतनु घटय ललिते ॥ रमय बाले ॥ ५॥
इदममरतरुकुसुमनिकरमयि ते
घनचिकुरमुपचरतु सपदि वनिते ॥ रमय बाले ॥ ६॥
दरहसितविधुकरमुदञ्चय मनो-
भवतपनमपनुदतु विलसितघने ॥ रमय बाले ॥ ७॥
शिवचरणपरिचरणयतविचारे
फणति हिमकरमौळिनियमिधीरे ॥ रमय बाले ॥ ८॥
श्लोकः
ईदृग्विधैश्चटुलचाटुवचोविलासैः
गाढोपगूहनमुखाम्बुजचुम्भनाद्यैः ।
आह्लादयन्गिरिसुतामधिकाञ्चि नित्यं
एकाम्रमूलवसतिर्जयति प्रसन्नः ॥ ५०॥
विद्याविनीतजयदेवकवेरुदार-
गीतिप्रबन्धसरणिप्रणिधानमात्रात्।
एषा मया विरचिता शिवगीतिमाला
मोदं करोतु शिवयोः पदयोजनीया ॥ ५१॥
अव्यक्तवर्णमुदितेन यथार्भकस्य
वाक्येन मोदभरितं हृदयं हि पित्रोः ।
एकाम्रनाथ भवदङ्घ्रिसमर्पितेयं
मोदं करोतु भवतः शिवगीतिमाला ॥ ५२॥
गुणानुस्यूतिरहिता दोषग्रन्थिविदूषिता ।
तथापि शिवगीतिर्नो मालिका चित्रमीदृशी ॥ ५३॥
ॐ नमः शिवायै च नमः शिवाय
इति श्रीचन्द्रशेखरेन्द्रसरस्वतीविरचिता शिवगीतिमाला
अथवा शिवाष्टपदी समाप्ता ।
॥ शुभमस्तु ॥
shivagItimAlA.pdf 25
शिवगीतिमाला अथवा शिवाष्टपदी
Sivagitimala or Sivashtapadi
pdf was typeset on January 19, 2019
26 sanskritdocuments.org