सामग्री पर जाएँ

विकिपीडिया:प्रबन्धकाः च प्रशासकाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रबन्धकाः

[सम्पादयतु]
प्रबंधकस्य चिह्न

प्रबंधकाः विकिपीडियायाः सम्पादकारकाः सन्ति येभ्यः विशेषाधिकाराणि प्रदत्तं वर्तन्ते च विशेष-नियन्त्रित उपकरणान्‌ उपयोजयितुमर्हन्ति । उदाहरणाय, ते अस्मिन्‌ कोषे पुटसम्पादनसहितं ते पुटानां संरक्षणं, सम्मार्जनं, पुनरुद्धरणं, च पुटानां पुनरावर्तनानां निक्षेपणं च सम्मार्जनं, सम्पादकान्‌ च कोषात्‌ विरोधं कर्तुमर्हन्ति । एतैः सेवाभावेन हि एतत्‌ कार्यं क्रियताम्‌ न तु स्वलाभाय च न तु कस्मिनपि विवादे ।

प्रबन्धकान्‌ भवितुम्‌

[सम्पादयतु]

कः अपि पञ्जीकृत प्रयोगकाः प्रबन्धकान्‌ भवितुम्‌ अर्हन्ति, परन्तु एतान्‌ अनिवार्य नियामकनियमानि ध्यातव्यानि :-

  • ५००+ सम्पादनानि अस्मिन्‌ सम्स्कृत विकिपीदियायां कर्तव्यानि अथवा अन्येषु कोषेषु ४०००+ सम्पादनानि कर्तव्यानि ।
  • संस्कृतभाषायां शुद्ध लेखने प्रवीणः भूयात्‌ ।
  • वादेषु नियतः सहभागी भूयात्‌ ।

प्रबन्धकाः समुदायस्य विश्वासं न्यासं च पुरस्करणं करणीयं च सम्माननीयम्‌ । च अस्मिन्‌ क्षेत्रे कार्यनिर्वहणार्थं विकिपीडियायां सम्पादनानुभवं भूयात्‌ । सम्पादकाः अभ्यर्थिनः सिद्धता तेषां/तासां वैयक्तिक विधेषु अध्ययनं कर्तुमर्हन्ति । प्रबन्धकपद प्रार्थना वा तस्य स्वीकरणपूर्वं अभ्यर्थिनः नियतः विकिपीडियायां प्रदानानि करणीयानि च सक्रियाः भूयासुः , विकिपीडियायाः निबन्ध-नियमावळीः सम्माननीयानि च ज्ञातव्यानि, च समुदाये विश्वसित-सम्पादकाः भवेयुः । अस्मै अभ्यर्थी तस्य प्रबन्धकपद प्रार्थना अस्य 'पुटस्य सम्भाषणपुटे' कृपया समर्पयन्तु । talk page.

प्रबन्धकपद प्रार्थनायायाः समीक्षणं च समापनं प्रार्थनास्थापनात्‌ ७ दिनानि एकेन प्रशासकेन भूयते । साध्यं भवेत्‌ चेत्‌ प्रशासकेन प्रार्थनासमयं अधिकं कर्तुं भूयते यदि अधिकवादानि आवश्यकानि इति तेन भाव्यते

प्रशासकः

[सम्पादयतु]
प्रशासकस्य चिह्न

प्रशासकाः विकिपीडियासदस्याः सन्ति ये :-

  • अन्यान्‌ सदस्यान्‌ प्रबन्धकपदे अथवा प्रशासकपदे पदोन्नतिं कर्तुमर्हन्ति ।
  • यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति ।
  • सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति ।

ते प्रबन्धकपदं अथवा प्रशासकपदं प्रदातुमर्हन्ति यदि समुदायस्य सामान्येच्छा भूयात्‌ , साधारणेन अस्य पुटस्य सम्भाषण पुटे सफलप्रार्थनानन्तरं वर्तते । तथा एव , प्रशासकाः समुचित समीक्षणानन्तरं हि सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति च यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति । ते सामान्यसमुदायस्य मतं अर्थं कृत्वा एव एतानि कार्याणि निर्वहनीयानि च तेषां/तासां क्रियान्‌ तर्केन सह स्पष्टीकरणं दातव्यं यदि पृष्टं चेत्‌ च तेषा/तासां तर्कं कटुवचनरहितं, समुदायहितं च भवेत्‌ । प्रशासकाः तु उत्प्रबंधकाः न सन्ति इति ध्यातव्यम्‌ । तेभ्यः अन्यानि विशेषाधिकाराणि न सन्ति (प्रबंधकस्य अधिकाराणि एतेभ्यः वर्तन्ते ।) ।

प्रशासकाः प्रशासकानुमतयः प्रबन्धकानुमतयः च उपसंहरणं कर्तुं न अर्हन्ति । एते Oversight अथवा Checkuser अनुमतयः दातुं न अर्हन्ति । एतानि कार्याणि कर्तुं कर्मनिर्वाहकाः सन्ति ये सर्वेषु विकियोजनेषु कार्यनिरताः सन्ति च एतान्‌/एताः वार्षिक पद्धत्या निर्वाचयन्ति। अनुमतिषु कर्मनिर्वाहकैः परिवर्तनानि भूयात्‌ चेत्‌ meta:Special:Log/rights पुटे अङ्कितः भवति । अधिकसमाचाराय वीक्ष्यन्ताम्‌ अत्र :- meta:Requests for permissions.

प्रशासकं भवितुम्‌

[सम्पादयतु]

प्रशासकानुमतयः अत्र प्रष्टुं शक्यते । प्रशासकानुमतयः प्रार्थनायायाः समीक्षणं च समापनं प्रार्थनास्थापनात्‌ ७ दिनानि एकेन प्रशासकेन भूयते । .

अनुमत्युपसंहरणम्‌

[सम्पादयतु]

अनुमतिदुरुपयोगउपसंहरणम्‌

[सम्पादयतु]

यदि समुदायेन निर्धार्यते यत्‌ प्रबन्धकैः अथवा प्रशासकैः तेषां/तासां अनुमतीनां स्वलाभाय विवादे दुरुपयोगं क्रियते तर्हि तादृशान्‌/तादृशाः प्रबन्धकाः/प्रशासकाः अनुमतीनां उपसंहरणं भविष्यति ।

अत्यवसरोपसंहरणम्‌

[सम्पादयतु]

यदि प्रबन्धकानां/प्रशासकानां सदस्यत्वं दुष्प्रभावितं भूयात्‌ , तर्हि तेषां/तासां अनुमतयः समुदायस्य समावेशं विना हि उपसंहरणं कर्तुमर्हति ।

पुनरावेदनम्‌

[सम्पादयतु]

यदि अनुमतयः उपसंहरिताः सन्ति, तर्हि बाधितप्रबन्धकाः/प्रशासकाः समुदाये पुनरावेदनं दातुमर्हन्ति ।

pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy